हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Shadanana Stuti – षडानन स्तुतिः
श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग-
-व्यूढं विष्णुपदीपयः शरवणे सम्भूतमन्यादृशम् ।
षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये
शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥
त्रिषडकृशदृगब्जः षण्मुखाम्भोरुहश्रीः
द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।
शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्
कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥
यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं
यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् ।
षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति
स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ ३ ॥
यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना
धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि ।
तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यं
श्रीसुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ ४ ॥
यस्य श्रीशमुखामराश्च जगति क्रीडां च बाल्योद्भवां
चित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः ।
लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनं
सोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ ५ ॥
येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
यः शक्त्या तारकोरःस्थलमतिकठिनं क्रौञ्चगोत्रं च भित्त्वा
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहुप्रमुख्यान् ।
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूरप्रहितमपि बलं तत्सभां गोपुरादीन्
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेऽहम् ॥ ९ ॥
यो वैकुण्ठादिदेवैः स्तुतपदकमलो वीरभूतादिसैन्यैः
संवीतो यो नभस्तो झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूटाख्यपुर्यां
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
नानाभूतौघविध्वंसितनिजपृतनो निर्जितश्च द्विरावृ-
-त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
मायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
-प्राणोऽभूत् सोऽस्तु नित्यं विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
भूरिभीषणमहायुधारव-
-क्षोभिताब्धिगणयुद्धमण्डलः ।
सिंहवक्त्रशिवपुत्रयो रणः
सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्बाहुवज्राहतो
मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।
क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
अण्डभित्तिपरिकम्पिभीषण-
-क्रूरसैन्यपरिवारपूर्णयोः ।
शूरपद्मगुहयोर्महारणः
शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै-
-र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।
यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं
केतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
केकिकुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् ।
अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्षै-
-र्वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।
तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य
श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहंस्तं भजेऽहम् ॥ १९ ॥
तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं
यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ध्न्यादरात् ।
स्वात्मानन्दसुखातिशायि परमानन्दं समाजग्मतुः
मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी-
-रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।
दुष्पाषण्डिजनैर्दुराग्रहपरैः स्कान्दं पुराणं महत्
मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् ।
ऐहिकामुष्मिकमहापुरुषार्थक्षयो भवेत् ॥ २२ ॥
यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता ।
भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ २३ ॥
यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला ।
अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ २४ ॥
षडाननस्तुतिमिमां यो जपेदनुवासरम् ।
धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ २५ ॥
इति श्रीषडानन स्तुतिः ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.